संस्कृतवर्णमालायां प्रथमः वर्णः। त्रयोदशस्वरेषु अन्यतमः। एषः ह्रस्वस्वरः । पञ्च मूलस्वरेषु अन्यतमः। उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।अस्य उच्चारणस्थानं कण्ठःअकारोविष्णुरुद्दिष्ट उकारस्तु महेश्वरः। मकारस्तु स्मृतोब्रह्मा प्रणवस्तु त्रयात्मकः॥

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अंअः
व्यञ्जनानि
क्ख्ग्घ्ङ्
च्छ्ज्झ्ञ्
ट्ठ्ड्ढ्ण्
त्थ्द्ध्न्
प्फ्ब्भ्म्
य्र्ल्व्
श्ष्स्ह्ज्ञ्क्ष्
उच्चारणम्

नानार्थाः सम्पादयतु

अकारो ब्रह्मविष्ण्वीशकमठेष्वङ्गणे रणे। गौरवेऽन्तःपुरे हेतौ भूषणेऽङ्घ्रावुमेज्ययोः॥

  1. विष्णुः
  2. वासुदेवः
  3. ब्रह्मा
  4. चतुर्मुखः
  5. परमेश्वरः
  6. महादेवः
  7. कूर्मः
  8. प्राङ्गणम्
  9. युद्धम्
  10. सङ्ग्रामः
  11. गौरवम्
  12. मर्यादा
  13. अन्तःपुरम्
  14. हेतुः
  15. कारणम्
  16. भूषणम्
  17. आभरणम्
  18. चरणः
  19. पादः
  20. पार्वती
  21. गौरी
  22. यागः
  23. यज्ञः

सुखज्ञानमुमारातिगिरिभूमिद्रुमालिषु। मृगसिंहवराहर्क्षतरक्षुगवयेष्वपि॥

  1. सुखम्
  2. ज्ञानम्
  3. शत्रुः
  4. गिरिः
  5. भूमिः
  6. वृक्षः
  7. भ्रमरः
  8. मृगः
  9. हरिणः
  10. सिंहः
  11. वराहः
  12. भालूकः
  13. मृगादः
  14. गवयः

अशब्दः स्यादभावेऽपे स्वल्पार्थप्रतिषेधयोः। अनुकम्पायां च तथा वासुदेवेत्वनव्ययः॥

  1. अभावः
  2. प्रतिषेधः
  3. स्वल्पम्
  4. अनुकम्पः

नञ्” सम्बन्धित “अ” कारस्य षट् भेदाः प्रकीर्तिताः।
उदाहरणानि,

  1. सादृश्यम् - अब्राह्मणः
  2. अभावः - अपापम्
  3. भेदः - अनश्वः
  4. अल्पत्वम् - अनुदरा कन्या
  5. अप्राशस्त्यम् - अपशवः
  6. विरोधः - अधर्मः

उपसर्गस्वरविभक्तिप्रतिरूपकाश्चेति ” स्वरादिगणसूत्रे “अ” इति सिद्धान्तकौमुद्यामुदाहृतं मनोरमायाञ्च “अ” संबोधने अधिक्षेपे निषेधे चेति व्याख्यातम्।

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=अ&oldid=395061" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्संस्कृतम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:साहाय्यम्विकिपीडियाविशेषः:अन्वेषणम्कालिदासःविशेषः:नूतनपरिवर्तनानिसदस्यसम्भाषणम्:Rajoriyaजलमालिन्यम्सहदेवः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चअन्ये च बहवः शूरा...विकिपीडिया:स्वागतम्अनन्तविजयं राजा...विकिपीडिया:विचारसभाविशेषः:मम सम्भाषणम्संस्कृतसाहित्यशास्त्रम्विकिपीडिया:General disclaimerमहाभारतम्स्वच्छभारताभियानम्विकिपीडिया:सभासंयुक्तराज्यानिप्रकल्पः:विषयेहार्वर्ड् विश्वविद्यालयःपुराणम्विकिपीडिया:प्रयोगपृष्ठम्बालकाण्डम्१६७७विशेषः:मम योगदानानिनिरुक्तम्रामायणम्मदर् तेरेसाआङ्ग्लभाषासमन्वितसार्वत्रिकसमयःवेदःआयुर्वेदः