मुख्यपृष्ठम्

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
आकाशमानचित्रम्

ज्योतिषशास्त्रम् यथा शिखा मयूराणां नागानां मणयो यथा। तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं मूर्ध्नि संस्थितम् ॥ इदं कालविज्ञापकं शास्त्रम्। मुहूर्त्तं शोधयित्वा क्रियमाणा यज्ञादिक्रियाविशेषाः फलाय कल्पन्ते, नान्यथा, तन्मुहूर्त्तज्ञानञ्च ज्यौतिषायत्तमतोऽस्य ज्यौतिषशास्रस्य वेदाङ्गत्वं स्वीकृतम्। उक्तञ्चायमर्थ आर्चज्योतिषे, यथा –

वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः।
तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान् ॥ (आर्चज्यौतिषम् ३६)

चतुर्णामपि वेदानां पृथक् पृथक् ज्यौतिषशास्त्रमासीत्, तेषु सामवेदस्य ज्यौतिषशास्त्रं नोपलभ्यते, त्रयाणामितरेषां वेदानां ज्यौतिषाण्यवाप्यन्ते। (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
जम्बूद्वीपस्थस्य भारतवर्षस्य भारतस्य पर्वताः कति ? ते के ?
सप्त कुलपर्वता: । ते च -
  1. महेन्द्रः
  2. मलयः
  3. सह्यः
  4. हिमालयः
  5. रैवतकः
  6. विन्ध्यः
  7. अरावली



आधुनिकलेखः
आधुनिकाः लेखाः
भारतस्य राष्ट्रपतिः

भारतस्य राष्ट्रपतिः भारतस्य प्रप्रथमः नागरिकः। राष्ट्रपतिपदं भारतगणराज्यस्य सर्वोत्कृष्टं, सम्मानितं च पदमस्ति। भारतीयशस्त्रसेनानां (भूसेना-नौसेना-वायुसेनानां) प्रमुखः सेनापतिरपि राष्ट्रपतिः एव। देहल्यां स्थिते राष्ट्रपतिभवने राष्ट्रपतिपदारूढस्य निवासः भवति। तस्य राष्ट्रपतिभवनस्य अपरे नामनी 'वायस् रीगल हाऊस्', 'रायसीना हिल' इति। एकस्याः व्यक्तेः राष्ट्रपतित्वेन अधिकाधिकं द्विवारमेव चयनं भवितुम् अर्हति। एतावत् पर्यन्तं प्रप्रथमः राष्ट्रपतिः डा. राजेन्द्र प्रसाद एव वारद्वयं राष्ट्रपतित्वेन कार्यम् अकरोत्। (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्

अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः।
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥

विष्णुपुराणम् ३/९/३१

मुनिः सर्वदा सर्वेषां विषये उत्तमम् एव चिन्तयन् अभयप्रदानं कुर्वन् सञ्चरति। तस्य अन्यस्मात् कस्मात् अपि भयं न भवति। यत् भावयति तत् भवति। वयम् अन्येषां विषये यथा भावयामः यथा व्ययहरामः तथैव ते अपि अस्माकं विषये भावयन्ति व्यवहरन्ति च।


सहपरियोजनाः

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=मुख्यपृष्ठम्&oldid=453806" इत्यस्माद् प्रतिप्राप्तम्
भाषा
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्अप्पय्यदीक्षितःविशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्विकिपीडियासंस्कृतम्कालिदासःविकिपीडिया:साहाय्यम्विकिपीडिया:विचारसभासदस्यसम्भाषणम्:Rajoriyaभारतम्विकिपीडिया:स्वागतम्विकिपीडिया:General disclaimerविकिपीडिया:स्वशिक्षाविशेषः:नूतनपरिवर्तनानिविकिपीडिया:प्रयोगपृष्ठम्प्रकल्पः:विषयेभासःविकिपीडिया:दूतावासः/Embassy३२१2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चविकिपीडिया:सभायदा यदा हि धर्मस्य...भूगोलीयनिर्देशाङ्कप्रणालीसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?महाभारतम्रघुवंशम्अभिज्ञानशाकुन्तलम्इस्लाम्-मतम्श्रीमद्भागवतमहापुराणम्वाल्मीकिःमहात्मा गान्धीपुराणम्क्षमा रावऋग्वेदःवेदाङ्गम्भारतीयदर्शनशास्त्रम्जलमालिन्यम्