मुख्यपृष्ठम्

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
अग्निपुराणम् अष्टादशपुराणेषु अन्यतमः। संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम्। स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते। इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च। पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम्। तानि च सम्भाषणान्यग्निवसिष्ठयोः। पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः। अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते। प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम्। (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
शङ्कराचार्येण स्थापिताः चत्वारः मठाः कुत्र कुत्र सन्ति ?

उत्तरदिशि - बदरी - उत्तरप्रदेशे
पश्चिमदिशि - द्वारका - गुजरातराज्ये
दक्षिणदिशि - शृङ्गेरी - कर्णाटकराज्ये`
पूर्वदिशि - पुरी - ओरिस्साराज्ये



आधुनिकलेखः
आधुनिकाः लेखाः
सञ्चिका:Saradar nehal.jpg
एकतामूर्तिः

एकतामूर्तिः अर्थात् स्टैच्यू ऑफ यूनिटी गुजरातराज्ये नवनीर्मितः कश्चन प्रकल्पः (project) अस्ति। भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति। यतो हि लौहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लौहपुरुषस्य भारतैकतायाः विचाराः सन्ति । एकतामूर्तिप्रकल्पे लौहपुरुषस्य १८२ मी. उन्नतमूर्तेः निर्माणम जातम्। सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं जातम्। तस्मात् जलबन्धात् ३.२ कि.मी. दूरे विद्यते भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिःभारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके (Sadhu island of Narmada River) द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तेः निर्माणं जातम्। (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्
आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः।

परं परोपकारार्थं यो जीवति स जीवति ॥

सु.भा. परोपकारप्रशंसा (७८/६)

प्रपञ्चे विद्यमानाः सर्वे अपि मनुष्याः स्वहितं, स्वसुखं च सम्पादयन्ति। अतः आत्मनः निमित्तं सर्वः अपि जनः जीवति एव। परन्तु ये जनाः अन्येषां हितम्, अन्येषां सुखं च कामयमानाः तदर्थं जीवन्ति, तेषां जीवनमेव सार्थकं जीवनम् ! धन्यं जीवनम् ! परोपकाररहितं जीवनं तु निरर्थकमेव।
सञ्चिका:आत्मार्थं जीवलोकेऽस्मिन्.wav


सहपरियोजनाः

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=मुख्यपृष्ठम्&oldid=453806" इत्यस्माद् प्रतिप्राप्तम्
भाषा
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्कालिदासःविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaसंस्कृतम्विकिपीडियाविकिपीडिया:प्रयोगपृष्ठम्अन्ये च बहवः शूरा...क्षमा रावविकिपीडिया:General disclaimerभारतम्चित्ररथःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानिसञ्चिका:IIT Delhi logo.pngभगत सिंहव्याकरणशास्त्रस्य इतिहासःविकिपीडिया:स्वागतम्संयुक्तराज्यानिकेरळस्य सागरपूर्वजलप्रवासःप्रकल्पः:विषयेसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?जलमालिन्यम्स्वाहिःविकिपीडिया:सभाकांस्ययुगम्हङ्गरीसंयुक्ताधिराज्यम्आस्ट्रेलियाप्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्भूगोलीयनिर्देशाङ्कप्रणालीप्रदूषणम्अष्टाङ्गयोगःटेबल्-टेनिस्-क्रीडा३८०विकिपीडिया:निर्वाचितलेखः