प्रपातनगरम् इत्यपि ख्यातम् अस्ति एतत् नगरम् ।‘मनु’ इति शब्दतः मनाली इति नाम आगतम् अस्ति । पुराणानुसारं प्रलयकाले मनुमहर्षिः सप्तर्षिभिः सह अत्र नौकया आगतवान् । प्रपाते यदा जलं पूर्णमभवत् तदा उन्नते प्रदेशे स्थितवान् । अनन्तरं पुनः नवसृष्टिं कृतवान् । एकां नदीम् अत्रैव त्यक्त्वा गतवान् सा नदी मानरलु इति प्रसिद्धा अस्ति । मनालीप्रदेशे मनुमहर्षेः मन्दिरम् अस्ति ।अत्र स्थितः हिडिम्बादेवालयः धुङ्ग्रिटेम्पल् नाम्ना ख्यातम् अस्ति । वसिष्ठगुहा इति स्थाने उष्णजलनिर्झरः अस्ति । जगत्सुख (६ कि.मी), अर्जुनगुम्फ्(गुहा), नेहरुगुम्फ, सोलाङ्ग् -उपत्यका (१४. कि.मी) रोहताङ्ग्पास् (५६कि.मी) इत्यादिस्थानानि दर्शनीयानि सन्ति ।बियास्नद्याः शिलासु प्रवहणदृश्यं मनमोहकमस्ति । हिमपर्वतेभ्यः पर्वतशिखराणां दर्शनं मनालीप्रदेशस्य वैशिष्ठयम् अस्ति । मनालीस्थाने शीतकाले ग्रीष्मकाले च विविधाः क्रीडाः प्रचलन्ति । स्कीयिङ्ग्, हेलीस्कीयिङ्ग् मौण्टेनियरिङ्ग्, कियाकिङ्ग्, हैकिङ्ग् इत्यादयः । युवजनानां जनप्रियं ‘हनिमून् प्लेस्’(मधुचन्द्रस्थानम्) विवाहानन्तरीयप्रवासस्थानम् इति अस्य प्रसिद्धिः अस्ति ।

मनाली

ilanam
गिरिधाम
देशःभारतम्
राज्यम्हिमाचलप्रदेशः
मण्डलम्कुलु
Elevation
२,०५० m
Population
 (2005)
 • Total१७,७८६
भाषाः
 • अधिकृताःहिन्दी
Time zoneUTC+5:30 (IST)
PIN
175131
Telephone code+911902

शिम्लातः २३५ कि.मी ।

विमाननिस्थानम्

सम्पादयतु

भुन्तार् इति

धूमशकटनिस्थानम्

सम्पादयतु

चण्डीगढ समीपनिस्थानम् ।

वाहनमार्गः

सम्पादयतु

जोगिन्दरनगरतः ४५ कि.मी । पठानकोटतः २८५ कि.मी । धर्मशालातः २१४ कि.मी । चण्डीगढतः ५१२ कि.मी । वसत्यर्थम् अनेकानि आहारवसतिगृहाणि सन्ति ।

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=मनाली&oldid=427470" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्सुमन पोखरेलविकिपीडिया:साहाय्यम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:स्वागतम्विकिपीडियाकालिदासःसंस्कृतम्स्वच्छभारताभियानम्विकिपीडिया:General disclaimerअरुणाचलप्रदेशराज्यम्अभिज्ञानशाकुन्तलम्पाणिनिःसंस्कृतवाङ्मयम्सदस्यसम्भाषणम्:Rajoriyaअष्टाध्यायीभारतीयदर्शनशास्त्रम्विशेषः:नूतनपरिवर्तनानिभारतम्विकिपीडिया:विचारसभाआर्यभटः१७०३त्रिभुवनदास गज्जरसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?बोरानसंयुक्तराज्यानिपण्डिता रमाबाईविकिपीडिया:दूतावासः/Embassyभगत सिंहजलमालिन्यम्पोटैशियममनमोहनः आचार्यःविकिपीडिया:प्रयोगपृष्ठम्विराट् कोहलीचंद्रयान-3संस्कृतविकिपीडियाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्या