भारतीयसाम्यवादिपक्षः (मार्क्सवादी)

भारतीयसाम्यवादिपक्षः(मार्क्सवादी)
निर्माणम्१९६४
संवादपत्रिकाजनसाधारणस्य गणतन्त्रम्
महिलाविभागःसर्वभारतीयगणतन्त्रिक-महिलासंगठनम्
कृषकविभागःसर्वभारतीयकृषकसभा
विचारधारासाम्यवादः
मार्क्सवादः–लेलिनवादः
राजनैतिकस्थितिःवामपन्थी
भारतीयनिर्वाचनायोगः Statusप्रचलितराष्ट्रियपक्षः
मैत्रीकूटःवामपक्षः
लोकसभासदस्यसंख्या
१६ / ५४५
राज्यसभासदस्यसंख्या
११ / २४५
जालस्थानम्
cpim.org

प्रसङ्गः

सम्पादयतु

भारतीयसाम्यवादिपक्षः(मार्क्सवादी) (CPI(M)) भारतवर्षस्य अन्यतमराजनैतिकपक्षः । केरळे, पश्चिमबङ्गे तथा त्रिपुरायाम् अयं पक्षः गुरुत्वपूर्ण-राजनैतिकशक्तिरूपेण प्रतिष्ठितः । साम्यवादिपक्षस्य(मार्क्सवादी) वर्तमानकाले त्रिपुराराज्ये सर्वकारः अस्ति । १९६४ तमे वर्षे अस्य पक्षस्य स्थापना अभूत् ।

नामौचित्यम्

सम्पादयतु

साम्यवादिपक्षः(मार्क्सवादी) (सि पि आइ (एम्)) इति अस्य पक्षस्य आधिकारिकनाम तथापि हिन्दीभाषायां, सांवादिकगणमाध्यमेषु "भारत की कम्युनिस्ट पार्टी मार्क्सवादी" अथवा कदाचित् "मार्क्सवादी कम्युनिस्ट पार्टी" इत्यपि नाम्ना श्रूयते । १९६४ तमे वर्षे मूलसाम्यवादिपक्षतः विभाजनानन्तरं पक्षस्य विवधनामानि आसन् यथा- "वामपन्थी कम्युनिस्ट पार्टी", "भारतीय कम्युनिस्ट पार्टी (वामपन्थी)" इत्यादीनि । १९६५ तमे वर्षे केरळविधानसभानिर्वाचने पक्षः भारतीयनिर्वाचनायोगे साम्यवादिपक्षः(मार्क्सवादी) इति नाम पञ्जीकृतवान् । अनन्तर्वर्तीकाले इयमेव आख्या प्रचलिता जाता ।

इतिहासः

सम्पादयतु
ज्योति बसु

साम्यवादीपक्षस्य विभाजनम्

सम्पादयतु
  • भारतीयसाम्यवादिपक्षस्य विभाजनानन्तरं साम्यवादिपक्षः(मार्क्सवादी) {सि पि आइ (एम्)} इति पक्षस्य उद्भवः । द्वितीयविश्वयुद्धकाले अविभक्तः सि पि आइ-पक्षः एकाधिकगणाभ्युत्थानस्य साक्षी आसीत् । अयं पक्षः तेलेङ्गाना-त्रिपुरायाम् एवं केरळे विप्लवेषु नेतृत्वं कृतवान् ।
  • १९५९ तमे वर्षे भरतवर्षे काङ्ग्रेसेतरज्यसर्वकारः केवलं केरळे आसीत् । केन्द्रीयसर्वकारः एम् एस् नम्बुदरि-नेतृत्वाधीनसर्वकारं पातयित्वा राष्ट्रपतेः शासनम् आरोपितवान् ।
  • विंशतिशतब्देः षष्टशतके भारतीयसाम्यवादिपक्षस्य सोवियेत् यूनियन्-देशस्य साम्यवादिपक्षेण (सि पि एस् यु) तथा चीनदेश्स्य साम्यवादुपक्षेण (सि पि सि) सह पारस्परिकसंपर्कस्य अवनति अभूत् । चीनदेश्स्य सि पि सि-पक्षः सि पि एस् यु-पक्षस्य निन्दाम् अकरोत् यत्- ते मार्क्स-लेलिनवादं त्यक्तवन्तः इति । भारत-चीनदेशयोः वैदेशिकसम्पर्कस्याऽपि अवनति अभूत्।
  • भारत-चीनयुद्धकाले केचन् भारतीयसाम्यवादिजनाः भारतसर्वकारं समर्थितवन्त । अपरपक्षानुसारम् इदं युद्धं समाजतान्त्रिकराज्यस्य तथा धनतान्त्रिकराज्यस्य संघर्षः एव आसीत् । भारतीयसाम्यवादिपक्षस्य इयं द्विरुक्तिः विचारधाराविरोधात् आसीत् । भारतीयसाम्यवादिपक्षस्य विभाजने इयमेव मुख्यकारणीभूता आसीत् । अनन्तर्वतीकाले(१९६४) भारतीयमतावलम्बिनः भारतीयसाम्यवादिपक्षस्य(मार्क्सवादी) (सि पि आइ (एम्)) स्थापनां कृतवन्तः ।
  • २००४ तमे वर्षे साधारणलोकसभानिर्वाचने सि पि आइ (एम्)-पक्षेण ५.६६ प्रतिशतं मतानि लब्धानि । अस्य पक्षस्य ४३ लोकसभासदस्याः निर्वाचिताः आसन् । पक्षोऽयं केन्द्रीयसर्वकारं समर्थनम् अकरोत् । परन्तु २००८ वर्षस्य जुलै मासस्य नवमदिनाङ्के भारत-आमेरिका-परमाणुसन्धेः(आइ ए इ ए) विरोधं कृत्वा समर्थनप्रत्याहारम् अकरोत् । अनन्तरकालीने निर्वाचने पक्षस्य लोकसभासदस्यसंख्या १६ आसन् ।
  • २०११ तमे वर्षे सि पि आइ(एम्)-पक्षस्य सर्वकारयोः पतनम् (केरळे तथा पश्चिमबङ्गे) अभवत् । पश्चिमबङ्ग-विधानसभानिर्वाचने सर्वभारतीयतृणमूलकांग्रेसपक्षः एवं भारतीयराष्ट्रियकांग्रेसपक्षः उभयपक्षयोः संयोजितप्रयासेन ३४ वर्षं यावत् प्रचलितायाः शासनपरम्परायाः (वामपन्थिसर्वकारस्य) पतनम् अभवत् ।

सङ्घटनस्य स्तराः

सम्पादयतु
  • पोलिट्ब्युरो (पि बि)
  • केन्द्रीयसमितिः (सि सि)
  • राज्यसमितिः (एस् सि)
  • मण्डलसमितिः

पोलिट्ब्युरो (पि बि)सदस्याः

सम्पादयतु
प्रकाश कारात्

वर्तमाने सि पि आइ (एम्)-पक्षस्य पञ्चदशसदस्याः पोलिट्ब्युरे सन्ति । एते यथा-

पक्षस्य सदस्यसंख्या

सम्पादयतु
पक्षस्य सभा

भारतीयसाम्यवादिपक्षानुसारं समग्रभारते पक्षस्य ८,६७,७६३ कार्यकर्तारः सन्ति । प्रतिराज्यं सदस्यसंख्यायाः विवरणम् प्रस्तूयते-

राज्यम्२००१२००२२००३२००४
आन्ध्रप्रदेशराज्यम्४०७८५४१८७९४५५१६४६७४२
असमराज्यम्१०४८०११२०७१११२२१०९०१
अण्डमाननिकोबारद्वीपसमूहः१७२१४०१२४९०
बिहारराज्यम्१७६७२१७४६९१६९२४१७३५३
छत्तीसगढराज्यम्१२१११३६४१०७९१०५४
देहली११६२१३६०१४१७१४०८
गोवाराज्यम्१७२३५४०६७
गुजरातराज्यम्२७९९३२१४३३८३३३९८
हरियाणाराज्यम्१३५७१४७८१४७७१६०८
हिमाचलप्रदेशराज्यम्१००५१००६१०१४१०२४
जम्मूकाश्मीरराज्यम्६२५७२०८३०८५०
झारखण्डराज्यम्२५५२२८१९३०९७३२९२
कर्णाटकराज्यम्६५७४७२१६६८९३६४९२
केरळराज्यम्३०१५६३१३६५२३१८९६९३१६३०५
मध्यप्रदेशराज्यम्२२४३२८६२२४८८२३२०
महाराष्ट्रराज्यम्८५४५९०८०९७९६१०२५६
मणिपुरराज्यम्३४०३३०२७०३००
ओडिशाराज्यम्३०९१३४२५३५०२३६५८
पञ्जाबराज्यम्१४३२८११०००११०००१००५०
राजस्थानराज्यम्२६०२३२००३५०७३१२०
सिक्किमराज्यम्२००१८०६५७५
तमिऴनाडुराज्यम्८६८६८९०७७७९१७०९९४३४३
त्रिपुराराज्यम्३८७३७४१५८८४६२७७५१३४३
उत्तराखण्डराज्यम्७००७२०७४०८२९
उत्तरप्रदेशराज्यम्५१६९५५४१५४७७५८७७
पश्चिमबङ्गराज्यम्२४५०२६२६२८८२२५८६८२२७४९२१
केन्द्रीयसमितेः सदस्याः९६९५९५८७
समग्रः७९६०७३८३५२३९८४३८९६८६७७६३

पक्षस्य साधारणसभापतयः

सम्पादयतु
क्रमःनामदायित्वकालः
प्रथमःपि सुन्दरय्या१९६४–१९७८
द्वितीयःइ.एम्.एस्. नम्बुदिरिपाद्१९७८–१९९२
तृतीयःहरकिषण सिंह सुरजीत्१९९२–२००८
चतुर्थःप्रकाश कारात्२००८–


🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीद्वितीयविश्वयुद्धम्संस्कृतम्विकिपीडिया:साहाय्यम्विशेषः:नूतनपरिवर्तनानिविशेषः:अन्वेषणम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:विचारसभाविकिपीडिया:स्वागतम्संस्कृतविकिपीडियाकालिदासःयदा यदा हि धर्मस्य...सदस्यसम्भाषणम्:Rajoriyaविकिपीडियानेदर्लेण्ड्देशःविकिपीडिया:General disclaimerविकिपीडिया:सभाविकिपीडिया:दूतावासः/Embassyसञ्चिका:Cassia fistula at Shree Ayurved College, Nagpur - panoramio.jpgअभिज्ञानशाकुन्तलम्इण्डोनेशियासंयुक्तराज्यानिविकिपीडिया:प्रयोगपृष्ठम्वैदिकसाहित्यम्भारतेश्वरः पृथ्वीराजःसङ्गणकविज्ञानम्नेपोलियन बोनापार्टअण्डमाननिकोबारद्वीपसमूहःविकिमीडियाभारतम्स्वच्छभारताभियानम्जीवविज्ञानिनःभारतीयकालमानःआयुर्विज्ञानम्प्रातिवाधि भयङ्करम् अन्नङ्गराचार्य:महाभारतम्ग्रेगोरी-कालगणनावेदः