अक्षरधाम (गान्धिनगरम्)

अक्षरधाम ( Peace in Pink Stone) (गान्धिनगर)


अक्षरधाम
अक्षरधाम, गान्धिनगरम्
जालस्थानम्http://www.akshardham.com/gujarat/ Edit this on Wikidata

अक्षरधाम (गान्धिनगरम्) तु भारतस्य गुजरातराज्यस्य विशालतममन्दिरेषु अन्यतमः अस्ति। गान्धिनगरं गुजरातराज्यस्य राजधानी अस्ति । साबरमतीनदीतीरे स्थितम् एतत नगरं नवीनतया निर्मितमस्ति । अनन्तरम् अत्रैव राज्यकार्याणि प्रचलन्ति । महात्मा गान्धेः स्मरणार्थं नगरस्य नाम गान्धिनगरम् इति अस्ति ।‘अक्षरधाम’नामके स्थले स्वामिनारायणदेवालयः निर्मितः अस्ति । स्वामिनारायणसंस्थानस्य प्रमुखैः स्वामिमहाराजैः देवालयस्य रचना कारिता अस्ति ।

निर्माणम्

सम्पादयतु

देवालयस्य निर्माणकार्याय ९०० कुशल शिल्पिनः कार्यं कृतवन्तः । ६००० टन् मिता रक्तशिला उपयुक्ता । भारतीय शिल्पशास्त्रानुसारं स्थपतयः सुन्दरतया निर्मितवन्तः सन्ति। अस्य विस्तारः १०,०४,३४९ चतुरस्रपादमितः ।अत्र ९३ स्तम्भाः ४० वातायनानि च सन्ति । नरनारायणाः अत्र आराध्याः सन्ति । सप्तपादमितैः स्वर्णपत्रैः नरनारायणौ आवृतौ स्तः । अत्र त्रयः मण्डपाः सन्ति । हरिमण्डपः प्रसादमण्डपः विभूतिमण्डपश्चेति ।हरिमण्डपे ५०० परमहंसाः सन्ति । अत्र वस्तुसङ्ग्रहालये स्वामिनारायणवर्येण गुरवे लिखितानि पत्राणि, गुरोः गृहस्य प्रतिरुपं, प्राचीनवृक्षस्य भागाः, गुरुणा उपयुक्तानि ऊर्णवस्राणि इत्यादिकं स्थापितवन्तः सन्ति । देवालयस्योपरि सुन्दरतया १४८ गजाः उत्कीर्णाः सन्ति । ऋषिमुनीनामाचार्यणां च प्रतिमाः स्थापिताः सन्ति ।

अत्र सहजानन्दवनम् इति किञ्चन स्थानं शिलावनैः, जलपातैः सङ्गीतोत्सभिः युक्तम् अस्ति । अस्य विस्तारः ६ हेक्टरमितः अस्ति । एतत् स्थलं प्रपञ्चस्य अष्टमम् अदभुतम् इति च कथयन्ति ।अक्षरधाम इदानीं गिन्नीस् विश्वपुस्तकेऽपि अधिकृततया प्रविष्टम् अस्ति ।

स्वामिनारायणसंस्था द्वारा पञ्चखण्डेषु ७१३ सङ्ख्याकाः देवालयाः कृताः सन्ति । हिन्दुधार्मिकविधिप्रकारमेव अत्रत्यानि आचरणानि प्रचलन्ति । प्रतिवर्षं २० लक्ष्याधिकजनाः अक्षरधाम देवालयसङ्कीर्णं पश्यन्ति । दिल्लीनगरेऽपि ‘अक्षरधाम’ भव्यतया निर्मितम् अस्ति ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:स्वागतम्विकिपीडियाविकिपीडिया:साहाय्यम्संस्कृतम्विकिपीडिया:विचारसभाआग्नेयजम्बुद्वीपःग्रेगोरी-कालगणनाविकिपीडिया:General disclaimerभारतीयकालमानःसंयुक्तराज्यानिस्विट्झर्ल्याण्ड्अरुणाचलप्रदेशराज्यम्परिसरविज्ञानम्जङ्गमदूरभाषयन्त्रम्यदा यदा हि धर्मस्य...भारतम्विशेषः:नूतनपरिवर्तनानिवार्त्तापत्रम्व्लाडिमिर लेनिनविकिपीडिया:दूतावासः/Embassyनेपोलियन बोनापार्टव्याकरणदार्शनिकग्रन्थाःकिर्गिजस्थानम्विकिपीडिया:निर्वाचितलेखःक्रिकेट्-क्रीडाहिन्दुमहासागरःमुष्टिकाताडनक्रीडाज्योतिषशास्त्रम्विकिपीडिया:सभायन्त्रशास्त्रम्विकिपीडिया:प्रयोगपृष्ठम्कालिदासःआयुर्विज्ञानम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या