क्रियापदम् सम्पादयतु

वाक्ये क्रियाबोधकं पदं क्रियापदम् इति उच्यते । उदा - बालकः पाठं पठति । अत्र पठनक्रियां सूचयति 'पठति' इत्येतद् क्रियापदम् । संस्कृते क्रियापदं मूलरूपेण न भवति । क्रियापदस्य मूलरूपं धातुः इति उच्यते । पठति इत्येतस्य क्रियापदस्य मूलरूपम्/धातुः अस्ति पठ् । यथा प्रातिपदिकानां कृते विभक्तिप्रत्ययान् संयोज्य शब्दरूपाणि प्राप्नुमः तथा धातूनां कृते आख्यातप्रत्ययान् संयोज्य क्रियापदानि प्राप्नुमः । पठति इत्यत्र पठ-धातोः कृते 'ति' इयेषः आख्यातप्रत्ययः योजितः अस्ति ।

धातवः सम्पादयतु

संस्कृते धातवः द्विविधम्

१ सिद्धधातवः
२ साधितधातवः

मूलधातवः सर्वे सिद्धधातवः । उदा - पठ्, लिख्, नी, पा ।साधितधातवः - मोचय्, जिज्ञास्, जाज्वल्, बाष्पाय् ।

संस्कृते २२०० धातवः सन्ति ।एतैः धातुभिः सह ये आख्यातप्रत्ययाः योज्यन्ते ते द्विविधम् - 'परस्मैपद' 'आत्मनेपद' च ।
यैः धातुभिः सह आत्मनेपद-आख्यातप्रत्ययाः मात्रं योज्यन्ते ते आत्मनेपदिनः इति उच्यन्ते ।
यैः धातुभिः सह परस्मैपद-आख्यातप्रत्ययाः मात्रं योज्यन्ते ते परस्मैपदिनः इति उच्यन्ते ।
यैः धातुभिः सह द्विविध-आख्यातप्रत्ययाः अपि योज्यन्ते ते उभयपदिनः इति उच्यन्ते ।

पुरुषाः सम्पादयतु

धातुभिः सह आख्यातप्रत्ययानां योजनावसरे क्रियापदं कस्य सम्बद्धम् इति ज्ञात्वा योजनीयं भवति । स्वस्य सम्बद्धं चेत् - उत्तमपुरुषः
पुरतः विद्यमानस्य सम्बद्धः चेत् मध्यमपुरुषः
अन्यस्य सम्बद्धः चेत् प्रथमपुरुषः भवति ।

दश लकाराः सम्पादयतु

संस्कृतभाषायां विभिन्नकालस्य अर्थस्य च सूचनार्थं दश विधाः आख्यातप्रत्ययाः संयोज्य क्रियापदानि रचयन्ति ।
सामान्यतः कालः त्रिधा विभज्यते ।
क्रियमाणं कार्यं सूचयितुं वर्तमानकालस्य क्रियापदानि उपयुज्यन्ते ।
कृतं कार्यं सूचयितुं भूतकालस्य क्रियापदानि उपयुज्यन्ते ।
करिष्यमाणं कार्यं सूचयितुं भविष्यत्कालस्य क्रियापदानि उपयुज्यन्ते ।
किन्तु संस्कृते कालः षोढा (६) विभज्यते ।

1. लट् - वर्तमाने
2. लङ् - अनद्यतनभूते
3. लिट् - परोक्षभूतकाले
4. लुङ् - सामान्यभूतकालः
5. लुट् - अनद्यतनभविष्यत्कालः
6. लृट् - सामान्यभविष्यत्कालः
7. लेट् - वेदप्रयोगे, ईश्वरप्रयोगे, कालं न

षट्-लकाराः इव चत्वारः अर्थाः सन्ति -

8. लोट् - आज्ञार्थः
9. लिङ् लकारः
  1. लिङ् - विध्यर्थः
  2. लिङ् - आश्यरर्थः
10. लृङ् - सङ्केतार्थः


एते सर्वे लकारतः आरब्धाः इत्यतः एते दश लकाराः इति उच्यन्ते । तान् सुलभतया स्मर्तुं संस्कृते कश्चन श्लोकः विद्यते -

लट् वर्तमाने लेट् वेदे भूते लङ् लुङ् लिटस्तथा ।
विध्याशिषोश्च लिङ्लोटौ लुट् लृट् लृङ् च भविष्यति ॥
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=लकाराः&oldid=486413" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विकिपीडिया:साहाय्यम्अरुणाचलप्रदेशराज्यम्कालिदासःविकिपीडियाशिवराज सिंह चौहानसंस्कृतम्विशेषः:अन्वेषणम्विकिपीडिया:General disclaimerसदस्यसम्भाषणम्:Rajoriyaभारतम्विकिपीडिया:विचारसभाभारतीयवायुसेनाविकिपीडिया:स्वागतम्यदा यदा हि धर्मस्य...CW 24 समाचारग्रेगोरी-कालगणनाविशेषः:नूतनपरिवर्तनानिअथर्ववेदःभारतीयकालमानःस्वामी विवेकानन्दःब्राह्मीलिपिःवर्णाश्रमव्यवस्थाक्षमा रावक्रिकेट्-क्रीडासंस्कृतविकिपीडियाविकिपीडिया:सभाथाईलेण्ड्संयुक्तराज्यानिसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्भूगोलीयनिर्देशाङ्कप्रणालीहिन्दीपण्डिता रमाबाईवाल्मीकिःसमन्वितसार्वत्रिकसमयःसंयुक्ताधिराज्यम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या