न हि ज्ञानेन सदृशं...
श्लोकः
सम्पादयतु![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/69/Hitopadesha.jpg/300px-Hitopadesha.jpg)
- न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
- तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य अष्टात्रिंशत्तमः (३८) श्लोकः ।
पदच्छेदः
सम्पादयतुन हि ज्ञानेन सदृशं पवित्रम् इह विद्यते तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥
अन्वयः
सम्पादयतुज्ञानेन सदृशं पवित्रम् इह नहि विद्यते । तत् स्वयं योगसंसिद्धः कालेन आत्मनि विन्दति । ।
शब्दार्थः
सम्पादयतु- ज्ञानेन = ब्रह्मज्ञानेन
- सदृशम् = तुल्यम्
- पवित्रम् = पावनम्
- इह = अत्र
- नहि विद्यते = नास्ति
- तत् = ज्ञानम्
- स्वयम् = आत्मना एव
- योगसंसिद्धः = समाधिनिः
- कालेन = महता समयेन
- आत्मनि = स्वस्मिन्
- विन्दति = लभते ।
अर्थः
सम्पादयतुइह लोके ज्ञानेन समं पवित्रम् अन्यत् न किञ्चन विद्यते । तत् ज्ञानं फलापेक्षां विना कर्म कुर्वन् पुरुषः गच्छता कालेन चित्तशुद्धिम् अवाप्य स्वयमेव आत्मनि प्राप्नोति ।
शाङ्करभाष्यम्
सम्पादयतुयत एवमतो-नहीति। नहि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरमिह विद्यते। तज्ज्ञानं स्वयमेव योगसंसिद्धो योगेन कर्मयोगेन समाधियोगेन च संसिद्धः संस्कृतोयोग्यतामापन्नो मुमुक्षुः कालेन महता त्मनि विन्दति। लभत इत्यर्थः।।38।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये न हि ज्ञानेन सदृशं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाअरुणाचलप्रदेशराज्यम्क्रिकेट्-क्रीडास्वच्छभारताभियानम्वाल्मीकिःविकिपीडिया:विचारसभाकालिदासःविकिपीडिया:General disclaimerक्रीडाआङ्ग्लभाषायदा यदा हि धर्मस्य...किर्गिजस्थानम्सावित्रीबाई फुलेसंस्कृतविकिपीडियाअन्ताराष्ट्रीययोगदिवसःवेदःटेबल्-टेनिस्-क्रीडाकैंटोनी भाषाफास्फोरसजलम्भारतम्ईखो खो क्रीडावैराग्यम् (योगदर्शनम्)विकिपीडिया:साहाय्यम्विराट् कोहलीविकिपीडिया:दूतावासः/Embassyअभिज्ञानशाकुन्तलम्विक्टर ह्यूगोजोन लोगी बेर्डविकिपीडिया:स्वागतम्विज्ञानम्