ली क्वान् यू

ली क्वान् यू, 16 सेप्टेम्बेर् 1923 – 23 मार्च् 2015 (आङ्ग्लभाषायां Lee Kuan Yew, तमिल् भाषायां லீ குவான் யூ, सिङ्गपूरदेशस्य प्रथमप्रधानमन्त्री आसीत्। सः सिङपूरस्य पिता इति तद्देशस्य जनैः प्रीत्या निर्दिश्यते । सः प्रजाक्रियापक्षः , (People Action Party/PAP) इत्येतं पक्षं १९५४ तमे वर्षे संस्थापितवान् । १९५९ तमवर्षतः सप्तसु अपि निर्वाचनेषु विजयं प्राप्तावान् । ली महोदयः स्वस्य शासनकाले सिङ्गपूरदेशं लोकस्य तृतीयर्वर्गदेशस्य स्थानात् प्रथमवर्गदेशस्य स्थानं प्रापितवान् इति श्लाघ्यते । १९९० तमवर्षपर्यन्तं सः प्रधानमन्त्री आसीत् । तदनन्तरम् अपि सर्वकारस्य मार्गदर्शकरूपेण सेवां कृतवान् । २००४ तमे वर्षे तस्य पुत्रः ली हसीन् लूङ् प्रथानमन्त्रिपदवीं प्राप्तवान् ।


Lee Kuan Yew
李光耀
सिङ्गपूरम् प्रधानमन्त्री
In office
३ जून् १९५९ तमे वर्षे – २८ नोवेम्बेर् १९९० तमे वर्षे
Presidentयूसफ् बिन् इशाक् <भ्रा>बेञेमिन् शियारेश् <भ्र> देवन् नायर् <भ्रा> वीकिम् वी
Preceded byप्रथम:
Succeeded byगो चोक् टोङ्ग्
In office
१२ आगस्ट् २००४ तमे वर्षे – २१ मे २०११ तमे वर्षे
Prime Ministerली हसीन् लूङ्ग्
Preceded byकोऽपि नास्ति
Succeeded byकोऽपि नास्ति
सिङपुरस्य वरिष्ठमन्त्री
In office
२८ नोवेम्बर् १९९० तमे वर्षे – १२ आगस्ट् २००४ तमे वर्षे
Prime Ministerगो चोक् टोङ्ग्
Preceded byसि। रजरत्नम्
Succeeded byगो चोक् टोङ्ग्
प्रजाक्रियापक्षस्य सचिवः
In office
२१ नवम्बेर् १९५४ तमे वर्षे – १ नवम्बेर् १९९२ तमे वर्षे
Preceded byकोऽपि नास्ति
Succeeded byगो चोक् टोङ्ग्
Member of Parliament
for डाङ्ग् जोङ्ग् बखार्
Assumed office
२ अप्रिल् १९५५ तमे वर्षे
Preceded byनूतन निर्वाचनक्षेत्रं
व्यैय्यक्तिकसूचना
Bornली क्वान् यू
१६ सेप्टेम्बेर् १९२३ तमे वर्षे
सिङ्गपूरम्
Died२३ मार्च् २०१५ तमे वर्षे
सिङ्गपूरम्
Political partyप्रजाक्रियापक्षः(People Action Party/PAP)
Spouse(s)क्वा जियोक् छू फलकम्:ह्रस्वम्
Childrenली हसीन् लूङ्<भ्रा>नै लिङ्ग्<भ्रा>चेयिन् याङ्ग्
Alma materलण्डन् अर्थशास्त्रशाला<भ्रा> पिड्स्विल्लिअम् महाविद्यालया, केम्ब्रिड्ज्

बाल्यं शिक्षणञ्च सम्पादयतु

ली क्वान् यू महोदयः १९२३ तमे वर्षे सिङ्गपुरे जातः । सः इङ्लन्ड् देशस्य प्रसिद्धकेम्ब्रिड्ज्विश्वविद्यालये न्यायशास्त्रं पठित्वा सिङ्गपूरं प्रत्यागम्य न्यायवादीरूपेण सेवां कृतवान् । अनन्तरं तस्य मित्रेण सह तेन राजनीतिक्षेत्रं प्रविष्म् । १९५० तमे वर्षे तस्य विवाहः क्वा जियोक् छू इत्यनया सह अभवत् । तस्य द्वौ पुत्रौ एका पुत्री । ली महोदयः चैनादेशवंशीयः आसीद् चेदपि बाल्ये चीनभाषां न ज्ञातवान् । ३२ तमे वयसि तेन चीनभाषा जपानभाषा च अधीता ।

मरणम् स्तुतिवचनम् च सम्पादयतु

२०१५ वर्षे मार्च्-मासस्य २२ दिनाङ्के, ९२ तमे वयसि तस्य मरणम् अभवत् । अमेरिकराष्ट्रपतिः बराक् ओबामा महोदयेन २००९ वर्षे उक्तवान् " ली महोदयस्य सहाय्येन एव एशियाखण्डस्य अर्थशास्त्रचमत्कारः(economic miracle) उपगतः। अतः एशियाखणडस्य २० एवं २१ शताब्दयोः इतिहासपुरुषेषु ली महोदयः अपि मुख्यः इति गणनीयः " इति । भारतप्रधानमन्त्री नरेन्द्र मोदी २०१५ वर्षे मार्च् २९ तमे दिनाङ्के लीमहोदयस्य अन्त्यक्रियायाम् उपगम्य, उक्तवान् " लीमहोदयः श्रेष्ठ-आधुनिकनायकानां सार्वलौकिकविचारकः आसीत्" इति । ली महोदयस्य् प्रति प्रबलसार्वजनिकाभिप्रायः अस्ति सः सर्वकारव्यवाहारेषु भ्रष्टाचारम् अपनीतवान् इति ।

पुरस्काराः सम्पादयतु

तेन रज्यपरिपालनकाले अनेके पुरस्काराः प्राप्ताः । विशेषतः,

  • १। दि आर्डर् ओफ़् ति रिसिङ् सन्-(१९६७)
  • २। दि आर्डर् आफ् कम्पेनियन्स् ओफ़् हानर् (१९७०)
  • ३। नैट् ग्राण्ड् क्रास् आफ् सैन्ट् मैकेल् अण्ड् सैन्ट् जार्ज् (१९७२)
  • ४। ति फ्रीडम् ओफ़् ति चिटि ओफ़् लण्डन् (१९८२)
  • ५। ति सेरि पादुका माह्किटा झोर् (१९८४)
  • ६। ति आर्डर् ओफ़् ग्रेट् लीडर् (१९८८)
  • ७। ति फेल्लोषिप् ओफ़् इम्पीरियल् कालेज् आफ् लण्डन् (२००२)
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=ली_क्वान्_यू&oldid=356800" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: