गोधूमपिष्टम्

गोधूमपिष्टं गोधूमस्य अत्यन्तं सूक्ष्मरूपम् । सः गोधूमः प्रायः जगति सर्वत्र वर्धमानः कश्चन धान्यविशेषः । अयम् अपि सस्यजन्यः आहारपदार्थः । अयं गोधूमः आङ्लभाषायां Wheat इति उच्यते । हिन्दीभाषायां “गेंहू” इति, ल्याटिन्भाषायां Triticum vulgare इति च उच्यते । तृणकुले अयं गोधूमः Graminea कुले अन्तर्भवति । प्रायः जगति अधिकांशेषु देशेषु गोधूमः एव प्रधानः आहारः । बहुदुग्धः, क्षीरी, अरूपः, म्लेच्छभोजनः, यवनः, निस्तुषः, रसालः, सुमनाः इत्यादीनि गोधूमस्य अन्यानि नामानि ।

गोधूमः
गोधूमेन निर्मिताः खाद्यपदार्थाः

अनेन गोधूमपिष्टेन पूरिका, रोटिका, पर्पटः, अवदंशः, सुपिष्टकं, पिष्टकम् इत्यादयः खाद्यपदार्थाः निर्मीयन्ते । यद्यपि गोधूमे विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् । गोधूमे महागोधूमः, मधूली, नन्दीमुखी इति त्रयः प्रभेदाः सन्ति । नवग्रहेषु अन्यतमस्य सूर्यस्य श्रेष्ठं धान्यं गोधूमः ।

दृश्यताम्

सम्पादयतु

अधिकविवरणार्थं गोधूमः इति पृष्ठं द्रष्टव्यम् ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=गोधूमपिष्टम्&oldid=481533" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्अरुणाचलप्रदेशराज्यम्६४०संस्कृतम्विकिपीडियायदा यदा हि धर्मस्य...विकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविराट् कोहलीरामायणम्क्षमा रावविकिपीडिया:स्वागतम्साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?भगत सिंहअभिज्ञानशाकुन्तलम्विकिपीडिया:General disclaimerविशेषः:नूतनपरिवर्तनानिनेताजी सुभाषचन्द्र बोसव्याकरणम्विकिपीडिया:सभाभारतम्विकिपीडिया:विचारसभासेंट लूसियाकालिदासःयोहान गुटेनबर्गप्रकल्पः:विषये७५४संस्कृतविकिपीडियासचिन तेण्डुलकरपी टी उषामहाभारतम्चाणक्यःसंस्कृतवाङ्मयम्कालिदासस्य उपमाप्रसक्तिःक्रियापदरूपाणिभगवद्गीता